वष्कयिणी

सुधाव्याख्या

वष्कते । ‘वष्क गतौ' (चु० उ० से०) । बाहुलकादयन् । वष्कयस्तरुणवत्सः । सोऽस्त्यस्याः ‘अतः-' (५.२.११५) इतीनिः । ‘अट्कुप्वाङ्-' (८.४.२) इति णत्वम् । -‘पूर्वपदात्-' (८.४.३)—इति मुकुटस्य प्रमादः । समासाभावात् । यद्वा ‘वष्कयस्त्वेकहायनो वत्सः' इति शाकटायनः । तेन नीयते । सम्पदादिः (वा० ३.३.१०८) । ‘सर्वतोऽक्तिन्नर्थात्’ (ग० ४.१.४५) इति ङीष् । गौरादित्वात् (४.१.४५) वा । ‘पूर्वपदात्’ (८.४.३) इति णत्वम् । अत्र पक्षे (वष्क यणी) इकाररहित उपान्त्यः ॥


प्रक्रिया

धातुः -


वष्कँ गतौ
वष्क् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वष्क् + अयन् - बाहुलकात्
वष्कयन् + इनि - अत इनिठनौ 5.2.115
वष्कयन् + इन् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वष्कयिन्
वष्कयिणी
x000D