अमरकोशः


श्लोकः

काल्योपसर्या प्रजने प्रष्ठौही बालगर्भिणी । स्यादचण्डी तु सुकरा बहुसूतिः परेष्टुका ॥ ७० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 काल्योपसर्या काल्योपसर्या स्त्रीलिङ्गः प्रजने गर्भग्रहणे प्राप्तकाला । यत् कृत् आकारान्तः
2 प्रष्ठौही प्रष्ठौही स्त्रीलिङ्गः प्रष्ठं वहति । ण्वि कृत् ईकारान्तः
3 बालगर्भिणी बालगर्भिणी स्त्रीलिङ्गः बाला चासौ गर्भिणी च ॥ तत्पुरुषः समासः ईकारान्तः
4 अचण्डी अचण्डी स्त्रीलिङ्गः तु चण्डी ॥ तत्पुरुषः समासः ईकारान्तः
5 सुकरा सुकरा स्त्रीलिङ्गः सु सुखं करोति । अच् कृत् आकारान्तः
6 बहुसूति बहुसूतिः स्त्रीलिङ्गः वह्वी सूतिर्यस्याः ॥ बहुव्रीहिः समासः इकारान्तः
7 परेष्टुका परेष्टुका स्त्रीलिङ्गः परमिच्छति । तु उणादिः आकारान्तः