परेष्टुका

सुधाव्याख्या

परमिच्छति । परैरिष्यते, वा । बाहुलकात्तुः । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥


प्रक्रिया

धातुः -


इषुँ इच्छायाम्
इष् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पर + इष् + तु - बाहुलकात्
पर + इष् + टु - ष्टुना ष्टुः 8.4.41
परेष्टु - आद्गुणः 6.1.87
परेष्टु + कन् – ज्ञापि ५.४.५
परेष्टु + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
परेष्टुका (टाप्) - अजाद्यतष्टाप्‌ 4.1.4
परेष्टुका (सु) - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
x000D