अमरकोशः


श्लोकः

उष्ट्रोरभ्राजवृन्दे स्यादौष्ट्रकौरभ्रकाजकम् । चक्रीवन्तस्तु वालेया रासभा गर्दभाः खरा: ॥ ७७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 औष्ट्रक औष्ट्रकम् नपुंसकलिङ्गः उष्ट्राणां समूहः । वुञ् तद्धितः अकारान्तः
2 औरभ्रक औरभ्रकम् नपुंसकलिङ्गः उरभ्राणां समूहः । वुञ् तद्धितः अकारान्तः
3 आजक आजकम् नपुंसकलिङ्गः अजानां समूहः । वुञ् तद्धितः अकारान्तः
4 चक्रीवत् चक्रीवत् पुंलिङ्गः चक्रवद्भ्रमणं चक्रम् मतुप् तद्धितः तकारान्तः
5 बालेय बालेयः पुंलिङ्गः वलेरपत्यम् । ढञ् तद्धितः अकारान्तः
6 रासभ रासभः पुंलिङ्गः रासते । अभच् उणादिः अकारान्तः
7 गर्दभ गर्दभः पुंलिङ्गः गर्दति । अभच् उणादिः अकारान्तः
8 खर खरः पुंलिङ्गः खं मुखबिलमतिशयितमस्य । तद्धितः अकारान्तः