गर्दभः

सुधाव्याख्या

गर्दति । ‘गर्द शब्दे' (भ्वा० प० से०) । ‘कॄशॄशलिकलिगर्दिभ्योऽभच्’ (उ० ३.१२२) । ‘गर्दभं श्वेतकुमुदे गर्दभो गन्धभिद्यपि । रासभे, गर्दभी क्षुद्रजन्तुरोगप्रभेदयोः' इति विश्वः (मेदिनी) ॥