खरः

सुधाव्याख्या

खं मुखबिलमतिशयितमस्य । ‘स्वमुख-' (वा० ५.२.१०७) इति रः । ‘खरो रक्षोन्तरे तीक्ष्णे दुःस्पर्शे रासभेऽपि च' इति हेमचन्द्रः ॥