अमरकोशः


श्लोकः

शकृत्करिस्तु वत्सः स्याद् दम्यवत्सतरौ समौ । आर्षभ्यः षण्डतायोग्यः षण्डो गोपतिरिट्चरः ॥ ६२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शकृत्करि शकृत्करिः पुंलिङ्गः शकृत् करोति । इन् कृत् इकारान्तः
2 वत्स वत्सः पुंलिङ्गः वदति । उणादिः अकारान्तः
3 दम्य दम्यः पुंलिङ्गः दमनार्हः । यत् कृत् अकारान्तः
4 वत्सतर वत्सतरः पुंलिङ्गः तनुर्वत्सः । ष्टरच् तद्धितः अकारान्तः
5 आर्षभ्य आर्षभ्यः पुंलिङ्गः ऋषभस्य प्रकृतिः ञ्य तद्धितः अकारान्तः
6 षण्ढ षण्ढः पुंलिङ्गः सनोति । उणादिः अकारान्तः
7 गोपति गोपतिः पुंलिङ्गः गवां पतिः ॥ तत्पुरुषः समासः इकारान्तः
8 इट्चर इट्चरः पुंलिङ्गः एषणम् इट् । अच् कृत् अकारान्तः