षण्डः

सुधाव्याख्या

षेति । सनोति । सन्यते वा । ‘षणु दाने' (तु० उ० से०) । ‘ञमन्ताड्डः' (उ० १.११४) । बाहुलकान्न सत्वम् । ‘षण्डं पद्मादिसङ्घाते न स्त्री स्याद्गोपतौ पुमान्' इति मूर्धन्यादौ डान्ते (मेदिनी) । ‘शण्ढः' इति पाठे ‘शमेर्ढः’ (उ० १.९९) । ‘शण्ढः स्यात्पुंसि गोपतौ । आ(अ)कृष्टाण्डे वर्षवरे तृतीयप्रकृ- तावपि' (इति मेदिनी) ॥