अमरकोशः


श्लोकः

कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम् । गोपे गोपालगोसंख्यगोधुगाभीरबल्लवा: ॥ ५७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 काम कामम् नपुंसकलिङ्गः कमनम् । घञ् कृत् अकारान्तः
2 प्रकाम प्रकामम् नपुंसकलिङ्गः कमनम् । घञ् कृत् अकारान्तः
3 पर्याप्त पर्याप्तम् नपुंसकलिङ्गः क्त कृत् अकारान्तः
4 निकाम निकामम् नपुंसकलिङ्गः कमनम् । घञ् कृत् अकारान्तः
5 इष्ट इष्टम् नपुंसकलिङ्गः एषणम् । क्त कृत् अकारान्तः
6 यथेप्सित यथेप्सितम् नपुंसकलिङ्गः आप्तुमिष्टम् । क्त कृत् अकारान्तः
7 गोप गोपः पुंलिङ्गः गां पाति । कृत् अकारान्तः
8 गोपाल गोपालः पुंलिङ्गः गां पालयति । अण् कृत् अकारान्तः
9 गोसंख्य गोसंख्यः पुंलिङ्गः गां सञ्चष्टे । कृत् अकारान्तः
10 गोदुह् गोदुक् पुंलिङ्गः गां दोग्धि । क्विप् कृत् हकारान्तः
11 आभीर आभीरः पुंलिङ्गः आ समन्ताद्रियं राति । कृत् अकारान्तः
8 बल्लव बल्लवः पुंलिङ्गः वल्लनम् । कृत् अकारान्तः