गोपः

सुधाव्याख्या

गविति । गां पाति । ‘पा रक्षणे' (अ० प० अ०) । ‘आतोऽनुप-' (३.२.३) इति कः । ‘गोपो गोपालके गोष्ठाध्यक्षे पृथ्वीपतावपि । ग्रामौघाधिकृते पुंसि सारिवाख्यौषधौ स्त्रियाम्' इति विश्वः (मेदिनी) ॥