अमरकोशः


श्लोकः

कूर्चिका क्षीरविकृतिः स्याद्रसाला तु मार्जिता । स्यात्तेमनं तु निष्ठानं त्रिलिङ्गा वासितावधेः ॥ ४४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कूर्चिका कूर्चिका स्त्रीलिङ्गः कूर्चति । ण्वुल् कृत् आकारान्तः
2 क्षीरविकृति क्षीरविकृतिः स्त्रीलिङ्गः क्षीरस्य विकृतिः ॥ तत्पुरुषः समासः इकारान्तः
3 रसाला रसाला स्त्रीलिङ्गः रसानालाति । कृत् आकारान्तः
4 मार्जिता मार्जिता स्त्रीलिङ्गः मार्ज्यते स्म । क्त कृत् आकारान्तः
5 तेमन तेमनम् नपुंसकलिङ्गः तिम्यतेऽनेन । ल्युट् कृत् अकारान्तः
6 निष्ठान निष्ठानम् नपुंसकलिङ्गः निष्ठीयतेऽत्र । ल्युट् कृत् अकारान्तः