मार्जिता

सुधाव्याख्या

मार्ज्यते स्म । ‘मृजू शौचालङ्कारयोः' (चु० उ० से०) । चुरादिः । क्तः (३.२.१०२) ॥ ‘अर्धाढकः सुचिरपर्युषितस्य दध्नः खण्डस्य षोडश पलानि शशिप्रभस्य । सर्पिः पलं मधु पलं मरिचं द्विकर्षं शुण्ठ्याः पलार्धमपि चार्धपलं चतुर्णाम् । सूक्ष्मे पटे ललनया मृदुपाणिघृष्टा कर्पूर- धूलिसुरभीकृतपात्रसंस्था । एषा वृकोदरकृता सरसा रसाला यास्वादिता भगवता मधुसूदनेन' इति सूदशास्त्रम् । (‘रसालायां तु मार्जितः । शिखरिणी' इति हैमनाममाला) ।


प्रक्रिया

धातुः -


मृजूँ शौचालङ्कारयोः
मृज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मृज् + णिच् - सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् 3.1.25
मृज् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
मार्ज् + इ + क्त - निष्ठा 3.2.102
मार्ज् + क्त - णेरनिटि 6.4.51
मार्ज् + त - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
मार्ज् + इट् + त - आर्धधातुकस्येड् वलादेः 7.2.35
मार्ज् + इ + त - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
मार्जित + टाप् - अजाद्यतष्टाप्‌ 4.1.4
मार्जित + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
मार्जिता - अकः सवर्णे दीर्घः 6.1.101
मार्जिता + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मार्जिता + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मार्जिता - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
x000D