अमरकोशः


श्लोकः

कुतूः कृत्तेः स्नेहपात्रं सैवाल्पा कुतुपः पुमान् । सर्वमावपनं भाण्डं पात्रामत्रं च भाजनम् ॥ ३३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कुतू कुतू स्त्रीलिङ्गः कुत्सितं तन्यते । कू बाहुलकात् ऊकारान्तः
2 स्नेहपात्र स्नेहपात्रम् नपुंसकलिङ्गः स्नेहस्य तैलघृतादेः पात्रम् ॥ तत्पुरुषः समासः अकारान्तः
2 कुतुप कुतुपः पुंलिङ्गः अल्पा कुतूः । डुपच् तद्धितः अकारान्तः
3 आवपन आवपनम् नपुंसकलिङ्गः आ उप्यतेऽत्र । ल्युट् कृत् अकारान्तः
4 भाण्ड भाण्डम् नपुंसकलिङ्गः भणति । अच् कृत् अकारान्तः
5 पात्र पात्रम् नपुंसकलिङ्गः पाति । ष्ट्रन् उणादिः अकारान्तः
6 अमत्र अमत्रम् नपुंसकलिङ्गः अमति अत्रन् उणादिः अकारान्तः
7 भाजन भाजनम् नपुंसकलिङ्गः भाजयति । ल्युट् कृत् अकारान्तः