कुतूः

सुधाव्याख्या

क्विति । कुत्सितं तन्यते । ‘तनु विस्तारे’ (त० उ० से०) । बाहुलकात् कूः, टिलोपश्च । कौति । ‘कु शब्दे’ (अ० प० अ०) । बाहुलकात् कूस्तुक्च वा । ‘कुत्वा डुपच्’ (५.३.८९) इति निर्देशाद्वा ॥