भाण्डम्

सुधाव्याख्या

‘भदि कल्याणे सुखे च’ (भ्वा० आ० से०) । अच् (३.१.१३४) । पृषोदरादिः (६.३.१०९) । भणति । ‘भण शब्दे’ (भ्वा० प० से०) । ‘ञमन्ताड्डः’ (उ० १.११४) । प्रज्ञाद्यण् (४.४.३८) । ‘भाण्डं मूलवणिग्वित्ते तुरंगाणां च मण्डने । नदी कूलद्वयोर्मध्ये भूषणे भाजनेऽपि च' इति (हैमः) ॥