अमरकोशः


श्लोकः

गोलोमी भूतकेशो ना पत्त्राङ्गं रक्तचन्दनम् । त्रिकटु त्र्यूषणं व्योषं त्रिफला तु फलत्रिकम् ॥ १११ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गोलोमी गोलोमी स्त्रीलिङ्गः गोलोम्नामियम् । अण् तद्धितः ईकारान्तः
2 भूतकेश भूतकेशः पुंलिङ्गः भूतानां केश इव । तत्पुरुषः समासः अकारान्तः
3 पत्राङ्ग पत्राङ्गम् नपुंसकलिङ्गः पत्राण्यङ्गेऽस्य । बहुव्रीहिः समासः अकारान्तः
4 रक्तचन्दन रक्तचन्दनम् नपुंसकलिङ्गः रक्तं चन्दनमिव । तत्पुरुषः समासः अकारान्तः
5 त्रिकटु त्रिकटुम् नपुंसकलिङ्गः त्रयाणां कटूनां समाहारः ॥ द्विगु समासः उकारान्तः
6 त्र्यूषण त्र्यूषणम् नपुंसकलिङ्गः त्रयाणामूषणानां समाहारः । द्विगु समासः अकारान्तः
7 व्योष व्योषम् नपुंसकलिङ्गः विशेषेण ओषति । अच् कृत् अकारान्तः
8 त्रिफला त्रिफला स्त्रीलिङ्गः त्रयाणां फलानां समाहारः । द्विगु समासः आकारान्तः
9 फलत्रिक फलत्रिकम् नपुंसकलिङ्गः फलानां त्रिकम् ॥ तत्पुरुषः समासः अकारान्तः