गोलोमी

सुधाव्याख्या

गविति । गोलोम्नामियम् । अण् (४.३.१२०) । संज्ञापूर्वकत्वाद्वृद्ध्यभावोऽपि । ‘गोलोमी श्वेतदूर्वायां स्याद्वचाभूतकेशयोः' इति विश्वः (मेदिनी) ॥