अमरकोशः


श्लोकः

शिग्रुजं श्वेतमरिचं मोरटं मूलमैक्षवम् । ग्रन्थिकं पिप्पलीमूलं चटकाशिर इत्यपि ॥ ११० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शिग्रुज शिग्रुजम् नपुंसकलिङ्गः शिग्रोर्जायते स्म । कृत् अकारान्तः
2 श्वेतमरिच श्वेतमरिचम् नपुंसकलिङ्गः श्वेतं मरिचमिव ॥ तत्पुरुषः समासः अकारान्तः
3 मोरट मोरटम् नपुंसकलिङ्गः मुरति । अटन् उणादिः अकारान्तः
4 ग्रन्थिक ग्रन्थिकम् नपुंसकलिङ्गः ग्रन्थेः प्रतिकृतिः । कन् तद्धितः अकारान्तः
5 पिप्पलीमूल पिप्पलीमूलम् नपुंसकलिङ्गः पिप्पल्या मूलम् ॥ तत्पुरुषः समासः अकारान्तः
6 चटकाशिरस् चटकाशिरस्म् नपुंसकलिङ्गः चटकायाः शिर इव । तत्पुरुषः समासः सकारान्तः