अमरकोशः


श्लोकः

मन:शिला मनोगुप्ता मनोह्वा नागजिह्निका । नैपाली कुनटी गोला यवक्षारो यवाग्रजः ॥ १०८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मन:शिला मन:शिला स्त्रीलिङ्गः मनःशब्दवाच्या शिला । तत्पुरुषः समासः आकारान्तः
2 मनोगुप्ता मनोगुप्ता स्त्रीलिङ्गः मनसा गुप्ता । तत्पुरुषः समासः आकारान्तः
3 मनोह्वा मनोह्वा स्त्रीलिङ्गः मनःशब्देन हूयते कथ्यते । तत्पुरुषः समासः आकारान्तः
4 नागजिह्विका नागजिह्विका स्त्रीलिङ्गः नागानां जिह्वेव । तत्पुरुषः समासः आकारान्तः
5 नैपाली नैपाली स्त्रीलिङ्गः नेपाले भवा । अण् तद्धितः ईकारान्तः
6 कुनटी कुनटी स्त्रीलिङ्गः कौ नटति । अच् कृत् ईकारान्तः
7 गोला गोला स्त्रीलिङ्गः गां दीप्तिं लाति । कृत् आकारान्तः
8 यवक्षार यवक्षारः पुंलिङ्गः यवानां क्षारः ॥ तत्पुरुषः समासः अकारान्तः
9 यवाग्रज यवाग्रजः पुंलिङ्गः यवाग्राज्जायते स्म । कृत् अकारान्तः