गोला

सुधाव्याख्या

गां दीप्तिं लाति । कः (३.२.३) । गुड्यते वा । ‘गुड वेष्टने’ (तु० प० से०) । घञ् (३.३.१९) । डलयोरैक्यम् । ‘गोला गोदावरीसख्योः कुनटीदुर्गयोः स्त्रियाम् । पात्त्राञ्जने मण्डने चालिञ्जरे वालखेलने’ ‘चला लक्ष्म्यां पुमान् कम्पे कम्पयुक्तेऽभिधेयवत्-' (इति मेदिनी) ॥