अमरकोशः


श्लोकः

निरस्तः प्रहिते बाणे विषाक्ते दिग्धलिप्तकौ । तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः ॥ ८८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 निरस्त निरस्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निरस्यते स्म । क्त कृत् अकारान्तः
2 दिग्ध दिग्धः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दिह्यते स्म क्त कृत् अकारान्तः
3 लिप्तक लिप्तकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः लिप्यते स्म । क्त कृत् अकारान्तः
4 तूण तूणः पुंलिङ्गः तूणयति । अच् कृत् अकारान्तः
5 उपासङ्ग उपासङ्गः पुंलिङ्गः उपासज्यन्तेऽत्र शराः । घञ् कृत् अकारान्तः
6 तूणीर तूणीरः पुंलिङ्गः तूणीं तूणत्वमीर्ते । अण् कृत् अकारान्तः
7 निषङ्ग निषङ्गः पुंलिङ्गः अण् कृत् अकारान्तः
8 इषुधि इषुधिः पुंलिङ्गः, स्त्रीलिङ्गः इषवो धीयन्तेऽत्र । कि कृत् इकारान्तः