तूणीरः

सुधाव्याख्या

तूणीं तूणत्वमीर्ते । ‘ईर गतौ' (अ० आ० से०) । ‘कर्मण्यण्' (३.२.१) । यद्वा तूणीं शरैः संकोचं राति । ‘रा दाने आदाने च' (अ० प० अ०) ‘आतोऽनुप-’ (३.२.३) इति कः ।