अमरकोशः


श्लोकः

जङ्घालोऽतिजवस्तुल्यौ जङ्घाकरिकजाङ्घिकौ । तरस्वी त्वरितो वेगी प्रजवी जवनो जव: ॥ ७३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 जङ्घाल जङ्घालः पुंलिङ्गः अतिशयिता जङ्घास्य । लच् तद्धितः अकारान्तः
2 अतिजव अतिजवः पुंलिङ्गः अतिशयितो जवो वेगो यस्य ॥ बहुव्रीहिः समासः अकारान्तः
3 जङ्घाकरिक जङ्घाकरिकः पुंलिङ्गः सैव करो राजदेयो भागः, आकरः श्रेष्ठो वा । ठन् तद्धितः अकारान्तः
4 जाङ्घिक जाङ्घिकः पुंलिङ्गः जङ्घाभ्यां जीवति । ठक् तद्धितः अकारान्तः
5 तरस्विन् तरस्वी पुंलिङ्गः तरो वेगोऽस्यास्ति । विनि तद्धितः नकारान्तः
6 त्वरित त्वरितः पुंलिङ्गः त्वरते । क्त कृत् अकारान्तः
7 वेगिन् वेगिनी पुंलिङ्गः अतिशयितो वेगोऽस्य । इनि तद्धितः नकारान्तः
8 प्रजविन् प्रजवी पुंलिङ्गः प्रजवति । इनि कृत् नकारान्तः
9 जवन जवनः पुंलिङ्गः जवति । युच् कृत् अकारान्तः
10 जव जवः पुंलिङ्गः जवति । अच् कृत् अकारान्तः