अमरकोशः


श्लोकः

व्यूहस्तु बलविन्यासो भेदा दण्डादयो युधि । प्रत्यासारो व्यूहपार्ष्णि: सैन्यपृष्ठे प्रतिग्रहः ॥ ७९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 व्यूह व्यूहः पुंलिङ्गः व्यूह्यते । घञ् कृत् अकारान्तः
2 बलविन्यास बलविन्यासः पुंलिङ्गः बलस्य सेनाया विन्यासो विभज्य स्थापनम् ॥ तत्पुरुषः समासः अकारान्तः
3 दण्ड दण्डः पुंलिङ्गः अकारान्तः
4 प्रत्यासार प्रत्यासारः पुंलिङ्गः प्रतीपमासारयति भग्नान् । अच् कृत् अकारान्तः
5 व्यूहपार्ष्णि व्यूहपार्ष्णिः पुंलिङ्गः व्यूहस्य पार्ष्णिः पृष्ठभागः । तत्पुरुषः समासः इकारान्तः
6 सैन्यपृष्ठ सैन्यपृष्ठः पुंलिङ्गः अकारान्तः
7 प्रतिग्रह प्रतिग्रहः पुंलिङ्गः प्रतिगृह्यतेऽनेन अप् कृत् अकारान्तः