प्रतिग्रहः

सुधाव्याख्या

प्रतिगृह्यतेऽनेन ‘ग्रहवृदृ-’ (३.३.५८) इत्यप् । ‘प्रतिग्रहः स्वीकरणे सैन्यपृष्ठे पतद्ग्रहे । योग्येभ्यो विधिवद्देये तद्ग्रहे च ग्रहान्तरे’ (इति मेदिनी) ॥