अमरकोशः


श्लोकः

ध्वजिनी वाहिनी सेना पृतनानीकिनी चमूः । वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम् ॥ ७८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ध्वजिनी ध्वजिनी स्त्रीलिङ्गः ध्वजाः सन्त्यस्याम् । इनि तद्धितः ईकारान्तः
2 वाहिनी वाहिनी स्त्रीलिङ्गः वाहाः सन्त्यस्याम् ॥ इनि तद्धितः ईकारान्तः
3 सेना सेना स्त्रीलिङ्गः सिनोति । उणादिः आकारान्तः
4 पृतना पृतना स्त्रीलिङ्गः प्रियते । तनन् बाहुलकात् आकारान्तः
5 अनीकिनी अनीकिनी स्त्रीलिङ्गः अनीकं रणोऽस्ति प्रयोजनत्वेन यस्याः । इनि तद्धितः ईकारान्तः
6 चमू चमू स्त्रीलिङ्गः चमति शत्रून् । उणादिः ऊकारान्तः
7 वरूथिनी वरूथिनी स्त्रीलिङ्गः वरूथाः सन्त्यस्याम् । इनि तद्धितः ईकारान्तः
8 बल बलम् नपुंसकलिङ्गः बलति । अच् कृत् अकारान्तः
9 सैन्य सैन्यम् नपुंसकलिङ्गः सेनैव । ष्यञ् तद्धितः अकारान्तः
10 चक्र चक्रम् नपुंसकलिङ्गः क्रियतेऽनेन । कृत् अकारान्तः
11 अनीक अनीकः पुंलिङ्गः, नपुंसकलिङ्गः अनित्यनेन । ईकन् उणादिः अकारान्तः