चमू

सुधाव्याख्या

चमति शत्रून् । ‘कृषिचमितनि-' (उ० १.८०) इत्यूः। -‘चमितमिवधिभ्य ऊः’-इति मुकुटः । तन्न । तादृशसूत्राभावात् । 'चमूः सेनाविशेषे च सेनामात्रे च योषिति' (इति मेदिनी) ॥