सैन्यम्

सुधाव्याख्या

सेनैव । चतुर्वर्णादित्वात् (वा० ५.१.१२४) ष्यञ् ॥


प्रक्रिया

धातुः -


सेना + सु + ष्यञ् – चतुर्वर्णादीनां स्वार्थ उपसंख्यानम् (5.1.124) । वार्तिकम् ।
सेना + ष्यञ् - सुपो धातुप्रातिपदिकयोः 2.4.71
सेना + य - षः प्रत्ययस्य 1.3.6, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
सेन् + य - यस्येति च 6.4.148
सैन्य - तद्धितेष्वचामादेः 7.2.117
सैन्य + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सैन्य + अम् - अतोऽम् 7.1.24
सैन्यम् - अमि पूर्वः 6.1.107