अमरकोशः


श्लोकः

महामात्रा: प्रधानानि पुरोधास्तु पुरोहितः । द्रष्टरि व्यवहाराणां प्राड्विवाकाक्षदर्शकौ ॥ ५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 महामात्र महामात्रः पुंलिङ्गः महती मात्रा येषां ते । बहुव्रीहिः समासः अकारान्तः
2 प्रधान प्रधानः पुंलिङ्गः, नपुंसकलिङ्गः प्रकर्षेण धीयन्ते । ल्युट् कृत् अकारान्तः
3 पुरोधस् पुरोधस् पुंलिङ्गः पुरोऽग्रे धीयते । असि उणादिः सकारान्तः
4 पुरोहित पुरोहितः पुंलिङ्गः पुरो धीयते स्म । क्त कृत् अकारान्तः
5 प्राड्विवाक प्राड्विवाकः पुंलिङ्गः प्राट् च विवाकश्च द्वन्द्वः समासः अकारान्तः
6 अक्षदर्शक अक्षदर्शकः पुंलिङ्गः अक्षाणां व्यवहाराणां दर्शकः ॥ ण्वुल् कृत् अकारान्तः