प्राड्विवाकः

सुधाव्याख्या

द्रेति । ऋणादानादीन्यष्टादश विवादस्थानानि व्यवहाराः । तेषां द्रष्टरि निर्णातरि । प्रच्छनम् । ‘क्विब्वचिप्रच्छिश्री-’ (उ० २.२७) इत्युणादिसूत्रेण क्विब्दीर्घौ सम्प्रसारणाभावश्च । विवचनम् । घञ् (३.३.१८) । प्राट् च विवाकश्च । प्राड्विवाकौ प्रश्नविवेकावस्य स्तः । अर्शआद्यच् (५.२.१२७) | प्रश्नविचारयोः कुशल इत्यर्थः । ‘विवादानुगतं पृष्ट्वा पूर्ववाक्यं प्रयत्नतः । विचारयति येनासौ प्राड्विवाकस्ततः स्मृतः () ॥


प्रक्रिया