प्रधानः

सुधाव्याख्या

प्रकर्षेण धीयन्ते । डुधाञ् धारणपोषणयोः’ (जु० प० अ०) । ‘कृत्यल्युटः’ (३.३.११३) इति कर्मणि ल्युट् । ‘प्रधानं स्यान्महामात्रे प्रकृतौ परमात्मनि । प्रज्ञायामपि च क्लीबमेकत्वे तूत्तमे सदा’ (इति मेदिनी) इति क्लीबत्वम् । पुंलिङ्गोऽपि । ‘महामात्रः प्रधानः स्यात्’ इति पुंस्काण्डे वोपालितात् ॥