अमरकोशः


श्लोकः

त्रिषु द्वैपादयो रथ्या रथकट्या रथव्रजे । धूः स्त्री क्लीबे यानमुखं स्याद्रथाङ्गमपस्करः ॥ ५५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 रथ्या रथ्या स्त्रीलिङ्गः रथानां समूहः । यत् तद्धितः आकारान्तः
2 रथकट्या रथकट्या स्त्रीलिङ्गः अच् तद्धितः आकारान्तः
3 धुर् धूः स्त्रीलिङ्गः धूर्वति । क्विप् कृत् रेफान्तः
4 यानमुख यानमुखम् नपुंसकलिङ्गः यानस्य मुखं पुरोभागः ॥ तत्पुरुषः समासः अकारान्तः
5 रथाङ्ग रथाङ्गम् नपुंसकलिङ्गः रथस्याङ्गम् ॥ तत्पुरुषः समासः अकारान्तः
6 अपस्कर अपस्करः पुंलिङ्गः अपकीर्यते स्वस्थाने क्षिप्यते । अप् कृत् अकारान्तः