अपस्करः

सुधाव्याख्या

अपकीर्यते स्वस्थाने क्षिप्यते । 'कॄ विक्षेपे' (तु० प० से०) । 'ऋदोरप्' (३.३.५७) । ‘अपस्करो रथाङ्गम्' (६.१.१४९) इति साधुः ॥