अमरकोशः


श्लोकः

वनायुजाः पारसीका: काम्बोजा बाल्हिका हयाः । ययुरश्वोऽश्वमेधीयो जवनस्तु जवाधिक: ॥ ४५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वनायुज वनायुजः पुंलिङ्गः वनायुषु देशेषु जाताः । कृत् अकारान्तः
2 पारसीक पारसीकाः पुंलिङ्गः पारसीके देशे भवाः । अण् तद्धितः अकारान्तः
3 काम्बोज काम्बोजाः पुंलिङ्गः कम्बोजेषु भवा: । अण् तद्धितः अकारान्तः
4 बाल्हीक बाल्हीकाः पुंलिङ्गः वल्हिकदेशे भवाः । अण् तद्धितः अकारान्तः
5 ययु ययुः पुंलिङ्गः याति । कु उणादिः उकारान्तः
6 जवन जवनः पुंलिङ्गः जवनशीलः । युच् कृत् अकारान्तः
7 जवाधिकः जवाधिकः पुंलिङ्गः जवेन वेगेनाधिकः ॥ तत्पुरुषः समासः