जवनः

सुधाव्याख्या

जेति । जवनशीलः । ‘जु’ इति ‘सौत्रो धातुर्गतौ वेगे च’ । 'जुचङ्क्रम्य-’ (३.२.१५०) इति युच् । 'जवनं तु स्यदे वेगिहये ना वेगिनि त्रिषु' (इति मेदिनी) ॥