बाल्हीकाः

सुधाव्याख्या

वल्हिकदेशे भवाः । ‘कोपधाच्च’ (४.३.१३७) इत्यण् । ‘वाल्हीकं वाल्हिकं धीरहिङ्गुनोर्नाश्वदेशयोः’ इति त्रिकाण्डशेषतो दीर्घमध्योऽपि ॥ एते हयविशेषाः प्रत्येकं भिन्नाः । – ‘वनायुजः पारसीक उक्तः’ इति रत्नकोषात् ‘श्वेताश्वं कर्काख्यं, वनायुजमपि पारसीकं तु’ इति नाममालायाश्च द्वयोः पर्यायता–इत्यपरे ॥