अमरकोशः


श्लोकः

अधः कुम्भस्य वाहित्थं प्रतिमानमधोऽस्य यत् । आसनं स्कन्धदेश: स्यात्पद्मकं विन्दुजालकम् ॥ ३९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वाहित्थ वाहित्थम् नपुंसकलिङ्गः कुम्भोऽत्र वातकुम्भः । तत्पुरुषः समासः अकारान्तः
2 प्रतिमान प्रतिमानम् नपुंसकलिङ्गः प्रतिमीयतेऽनेन । ल्युट् कृत् अकारान्तः
3 आसन आसनम् नपुंसकलिङ्गः आस्यतेऽत्र । ल्युट् कृत् अकारान्तः
4 पद्मक पद्मकम् नपुंसकलिङ्गः पद्ममिव । कन् तद्धितः अकारान्तः