वाहित्थम्

सुधाव्याख्या

अध इति । कुम्भोऽत्र वातकुम्भः । ‘वाहित्यं वातकुम्भाधः इति भागुरिः । स च ललाटाधोभागः । (कुम्भयोरन्तरं विदुः । वातकुम्भस्तु तस्याधो वाहित्थं तु ततोऽप्यधः’ इति हैमनाममाला) । अवश्यं वहति । ‘आवश्यका-’ (३.३.१७०) इति णिनिः । स तिष्ठत्यत्र । ‘घञर्थे कः’ (वा० ३.३.५८) । पृषोदरादित्वात् सस्य तः ॥


प्रक्रिया

धातुः -


वहँ प्रापणे
वह् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वह् + णिनि - आवश्यकाधमर्ण्ययोर्णिनिः 3.3.170
वह् + इन् - उपदेशेऽजनुनासिक इत् 1.3.2, चुटू 1.3.7, तस्य लोपः 1.3.9
वाह् + इन् - अत उपधायाः 7.2.116
ष्ठा गतिनिवृत्तौ
स्था - धात्वादेः षः सः 6.1.64
वाहिन् + सु + स्था + क - घञर्थे कविधानम् (3.3.58) । वार्तिकम् ।
वाहिन् + स्था + क - सुपो धातुप्रातिपदिकयोः 2.4.71
वाहिन् + स्था + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
वाहिन् + स्थ् + अ - आतो लोप इटि च 6.4.64
वाहिस्थ - नलोपः प्रातिपदिकान्तस्य 8.2.7
वाहित्थ - पृषोदरादीनि यथोपदिष्टम् 6.3.109
वाहित्थ + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वाहित्थ + अम् - अतोऽम् 7.1.24
वाहित्थम् - अमि पूर्वः 6.1.107