प्रतिमानम्

सुधाव्याख्या

प्रेति । प्रतिमीयतेऽनेन । ‘मीञ् हिंसायाम्’ (क्र्या० उ० अ०) । ‘मीनाति मिनोति-’ (६.१.५०) इत्यात्वम् । ‘करणा-’ (३.३.११७) इति ल्युट् । ‘प्रतिमानं प्रतिच्छायागजदन्तान्तरालयोः इति रुद्रः ॥