अमरकोशः


श्लोकः

समुदायः स्त्रियः संयत्समित्याजिसमिद्युधः । नियुद्धं बाहुयुद्धे स्यात् तुमुलं रणसङ्कुले ॥ १०६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 समुदाय समुदायः पुंलिङ्गः समुदयनम् । घञ् कृत् अकारान्तः
2 संयत् संयत् स्त्रीलिङ्गः संयतनम् । क्विप् कृत् तकारान्तः
3 समिति समितिः स्त्रीलिङ्गः समयनम् । क्तिच् कृत् इकारान्तः
4 आजि आजिः स्त्रीलिङ्गः अजनम् । इण् कृत् इकारान्तः
5 समित् समित् स्त्रीलिङ्गः समयनम् । क्विप् कृत् तकारान्तः
6 युध् युध् स्त्रीलिङ्गः योधनम् । क्विप् कृत् धकारान्तः
7 नियुद्ध नियुद्धम् नपुंसकलिङ्गः निगृह्य नितरां वा युद्धम् ॥ तत्पुरुषः समासः अकारान्तः
8 बाहुयुद्ध बाहुयुद्धम् नपुंसकलिङ्गः बाहुभिर्युद्धम् ॥ तत्पुरुषः समासः अकारान्तः
9 तुमुल तुमुलम् नपुंसकलिङ्गः तवनम् । मुलक् बाहुलकात् अकारान्तः
10 रणसङ्कुल रणसङ्कुलम् नपुंसकलिङ्गः रणस्य 'सङ्कुलम्' ॥ तत्पुरुषः समासः अकारान्तः