आजिः

सुधाव्याख्या

अजनम् । ‘अज गतौ’ (भ्वा० प० से०) । 'इञ(ण) जादिभ्यः’ (वा० ३.३.१०८) । इञ (ण)विधानसामर्थ्यादजेर्न वी । अन्यथा 'व्यादिभ्यः’ इत्येवावक्ष्यत् । ‘बहुलं तणि’ (वा० २.४.५४) इति वा । 'आजिः स्त्री समभूमौ संग्रामे’ (इति मेदिनी) ॥