तुमुलम्

सुधाव्याख्या

त्विति । तवनम् । तौति वा । 'तु' सौत्रः । बाहुलकान्मुलक् ('तुमुलं रणसङ्कुले । तुमुलो विभीतकद्रौ' इति हैमः) । 'तुमुलं व्याकुले रणे' इति त्रिकाण्डशेषः ॥


प्रक्रिया

धातुः -


तु (सौत्रो धातुः ।)
तु + मुलक् – बाहुलकात्
तु + मुल - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
तुमुल + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
तुमुल + अम् - अतोऽम् 7.1.24
तुमुलम् - अमि पूर्वः 6.1.107