अमरकोशः


श्लोकः

सम्प्रहाराभिसंपातकलिसंस्फोटसंयुगाः । अभ्यामर्दसमाघातसंग्रामाभ्यागमाहवाः ॥ १०५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 संप्रहार संप्रहारः पुंलिङ्गः सम्प्रहरणम् । घञ् कृत् अकारान्तः
2 अभिसंपात अभिसंपातः पुंलिङ्गः अभिसम्पतनम् । घञ् कृत् अकारान्तः
3 कलि कलिः पुंलिङ्गः कलनम् । इन् उणादिः इकारान्तः
4 संस्फोट संस्फोटः पुंलिङ्गः संस्फोटनम् घञ् कृत् अकारान्तः
5 संयुग संयुगः पुंलिङ्गः संयोजनम् । घञ् कृत् अकारान्तः
6 अभ्यामर्द अभ्यामर्दः पुंलिङ्गः अभ्यामर्दनम् । घञ् कृत् अकारान्तः
7 समाघात समाघातः पुंलिङ्गः समाहननम् । घञ् कृत् अकारान्तः
8 संग्राम संग्रामः पुंलिङ्गः संग्रामणम् । अच् कृत् अकारान्तः
9 अभ्यागम अभ्यागमः पुंलिङ्गः अभ्यागमनम् । अप् कृत् अकारान्तः
10 आहव आहवः पुंलिङ्गः आह्वानम् । अप् कृत् अकारान्तः