संयुगः

सुधाव्याख्या

संयोजनम् । ‘युजिर् योगे’ (स्वा० उ० अ०) । घञ् (३.३.१८)–‘रथयुग-' (४.४.७६) इति निर्देशाद्गुणाभावः । प्रतिजनादिषु (४.४.९९ गणे) ‘संयुग’ शब्दपाठाद्वा ॥