कलिः

सुधाव्याख्या

कलनम् । कल शब्दादौ’ (भ्वा० आ० से०) । इन् (उ० ४.११८)–‘कलेरिः-इति मुकुटः । तन्न । तादृशसूत्राभावात् । कलिर्विभीतके शूरे विवादेऽन्त्ययुगे युधि’ इति हैमः ॥