अमरकोशः


श्लोकः

औपवस्तं तूपवासो विवेकः पृथगात्मता । स्याद्ब्रह्मवर्चसं वृत्ताध्ययनर्द्धिरथाञ्जलिः ॥ ३८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 औपवस्त औपवस्तम् नपुंसकलिङ्गः उपवसनम् । क्त कृत् अकारान्तः
2 उपवास उपवासः पुंलिङ्गः उपवसनम् । घञ् कृत् अकारान्तः
3 विवेक विवेकः पुंलिङ्गः विवेचनम् । घञ् कृत् अकारान्तः
4 पृथगात्मता पृथगात्मता स्त्रीलिङ्गः पृथगात्मा यस्य सः । तस्य भावः । तल् तद्धितः आकारान्तः
5 ब्रह्मवर्चस ब्रह्मवर्चसम् नपुंसकलिङ्गः ब्रह्मणो वेदस्य तपसो वा वर्चः । अच् तद्धितः अकारान्तः
6 वृत्ताध्ययनर्द्धिः वृत्ताध्ययनर्द्धिः स्त्रीलिङ्गः वृत्तं चाचारः तत्पुरुषः समासः