औपवस्तम्

सुधाव्याख्या

औपेति । उपवसनम् । ‘वसु स्तम्भे’ (दि० प० से०) । भावे क्तः (३.३.११४) । अनेकार्थत्वादभोजने वृत्तिः । प्रज्ञाद्याणि (५.४.३८) ‘औपवस्तम्’। क्वचित् ‘औपवस्त्रम्’ इति पाठः । उपवसति । तृच् (३.१.१३३) उपवस्तुरिदं कर्म । ‘तस्येदम्' (४.३.१२०) इत्यण्॥