अमरकोशः


श्लोकः

उपस्पर्शस्त्वाचमनमथ मौनमभाषणम् । आनुपूर्वी स्त्रियां वावृत्परिपाटी अनुक्रमः ॥ ३६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 उपस्पर्श उपस्पर्शः पुंलिङ्गः उपस्पर्शनम् । घञ् कृत् अकारान्तः
2 आचमन आचमनम् नपुंसकलिङ्गः आचम्यतेऽम्भोत्र । ल्युट् कृत् अकारान्तः
3 मौन मौनम् नपुंसकलिङ्गः मुनेः कर्म, भावो वा । अण् तद्धितः अकारान्तः
4 अभाषण अभाषणम् नपुंसकलिङ्गः न भाषणम् । ल्युट् कृत् अकारान्तः
5 आनुपूर्वी आनुपूर्वी स्त्रीलिङ्गः पूर्वानुक्रमेण वा । ष्यञ् तद्धितः ईकारान्तः
6 आवृत् आवृत् स्त्रीलिङ्गः आवर्तनम् । क्विप् कृत् तकारान्तः
7 परिपाटी परिपाटी स्त्रीलिङ्गः पारिपाटनम् । उणादिः ईकारान्तः
8 अनुक्रम अनुक्रमः पुंलिङ्गः अनुक्रमणम् । घञ् कृत् अकारान्तः