आनुपूर्वी

सुधाव्याख्या

आन्विति । पूर्वं पूर्वम् । पूर्वानुक्रमेण वा । वीप्सायां योग्यतायां वाव्ययीभावः (२.१.६) । अनुपूर्वं भावः । ‘वर्णदृढादिभ्यः’ (५.१.१२३) इति ष्यञ् । षित्वात् (४.१.४१) ङीप् । ‘हल- स्तद्धितस्य’ (६.४.१५०) इति यलोपः । ‘स्त्रियां वा’ इति पक्षे क्लीबता । (आनुपूर्व्यम्)॥


प्रक्रिया

धातुः -


पूर्वम् + पूर्वम्
अनुपूर्वम् - अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु 2.1.6
अनुपूर्व + ष्यञ् - वर्णदृढादिभ्यः ष्यञ् च 5.1.123
अनुपूर्व + य - हलन्त्यम् 1.3.3, षः प्रत्ययस्य 1.3.6, तस्य लोपः 1.3.9
अनुपूर्व् + य - यस्येति च 6.4.148
आनुपूर्व् + य - तद्धितेष्वचामादेः 7.2.117
आनुपूर्व् + य + ङीष् - षिद्गौरादिभ्यश्च 4.1.41
आनुपूर्व् + ङीष् - हलस्तद्धितस्य 6.4.150
आनुपूर्व् + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
आनुपूर्वी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
आनुपूर्वी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आनुपूर्वी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68