उपस्पर्शः

सुधाव्याख्या

उपेति । उपस्पर्शनम् । ‘स्पृश संस्पर्शे’ (तु० प० अ०) । घञ् (३.३.१८) । यद्वा उपस्पृश्यन्ते वारीण्यत्र’। ‘हलश्च’ (३.३.१२१) इति घञ् । ‘उपस्पर्शः स्पर्शमात्रे स्नानाचमनयोरपि’ (इति मेदिनी) ॥